|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.200. अध्यायः 200
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
मनुरुवाच। 12-200-0x(6046)(72959)
अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम्।
जलात्प्रसूता जगती जगत्या जायते जगत्॥ 12-200-1(72960)
इमे शरीरैर्जलमेव गत्वा
जलाच्च तेजः पवनान्तरिक्षम्।
खाद्वै निवर्तन्ति न भाविनस्ते
ये भाविनस्ते परमाप्नुवन्ति॥ 12-200-2(72961)
नोष्णं न शीतं मृदु नापि तीक्ष्णं
नाम्लं कषायं मधुरं न तिक्तम्।
न शब्दवन्नापि च गन्धवत्त
न्न रूपवत्तत्परमस्वभावम्॥ 12-200-3(72962)
स्पर्शं तनुर्वेद रसं च जिह्वा
घ्राणं च गन्धाञ्श्रवणे च शब्दान्।
रूपाणि चक्षुर्नच तत्परं य
द्गृह्णन्त्यनध्यात्मविदो मनुष्याः॥ 12-200-4(72963)
निवर्तयित्वा रसनां रसेभ्यो
घ्राणं च गन्धाच्छ्रवणे च शब्दात्।
स्पर्शात्तनुं रूपगुणात्तु चक्षु
स्ततः परं पश्यति तत्स्वभावम्॥ 12-200-5(72964)
यतो गृहीत्वा हि करोति यच्च
यस्मिंश्च यामारभते प्रवृत्तिम्।
यस्मै च यद्येन च यश्च कर्ता
यत्कारणं तं स्वमुपेयमाहुः॥ 12-200-6(72965)
यद्वाऽप्यभूद्व्यापकं साधकं च
यन्मन्त्रवत्स्थास्यति चापि लोके।
यः सर्वहेतुः परमार्थकारी
तत्कारणं कार्यमतो यदन्यत्॥ 12-200-7(72966)
यथा हि कश्चित्सुकृतैर्मनुष्यः
शुभाशुभं प्राप्नुते चाविरोधात्।
एवं शरीरेषु शुभाशुभेषु
स्वकर्मभिर्ज्ञानमिदं निवद्धम्॥ 12-200-8(72967)
यथा प्रदीप्तः पुरतः प्रदीपः।
प्रकाशमन्यस्य करोति दीप्यन्।
तथेह पञ्चेन्द्रियदीपवृक्षा
ज्ञानप्रदीप्ताः परवन्त एव॥ 12-200-9(72968)
यथा च राज्ञो बहवो ह्यमात्याः
पृथक् प्रमाणं प्रवदन्ति युक्ताः।
तद्वच्छरीरेषु भवन्ति पञ्च
ज्ञानैकदेशाः परमः स तेभ्यः॥ 12-200-10(72969)
यथार्चिषोऽग्नेः पवनस्य वेगा
मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च संयताश्च
तद्वच्छरीराणि शरीरिणां तु॥ 12-200-11(72970)
यथा च कश्चित्परशुं गृहीत्वा
धूमं न पश्येज्ज्वलनं च काष्ठे।
तद्वच्छरीरोदरपाणिपादं
छित्त्वा न पश्यन्ति ततो यदन्य॥ 12-200-12(72971)
तान्येव काष्ठानि यथा विमथ्य
धूमं च पश्येज्ज्वलनं च योगात्।
तद्वत्सुबुद्धिः सममिन्द्रियार्थै
र्बुद्धः परं पश्यति तत्स्वभावम्॥ 12-200-13(72972)
यथात्मनोऽङ्गं पतितं पृथिव्यां
स्वप्नान्तरे पश्यति चात्मनोऽन्यत्।
श्रोत्रादियुक्तः सुमनाः सुबुद्धि
र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्॥ 12-200-14(72973)
उत्पत्तिवृद्धिक्षयमसन्निपातै
र्न युज्यतेऽसौ परमः शरीरी।
अनेन लिङ्गेन तु लिङ्गमन्य
द्गच्छत्यदृष्टः प्रतिसन्धियोगात्॥ 12-200-15(72974)
न चक्षुषा पश्यति रूपमात्मनो
न चापि संस्पर्शमुपैति किंचित्।
न चापि तैः साधयते स्वकार्यं
ते तं न पश्यन्ति स पश्यते तान्॥ 12-200-16(72975)
यथा समीपे ज्वलतोऽनलस्य
संतापजं रूपमुपैति कश्चित्।
न चान्तरा रूपगुणं बिभर्ति
तथैव तद्दृश्यते रूपमस्य॥ 12-200-17(72976)
तथा मनुष्यः परिमुच्य काय
मदृश्यमन्यद्विशते शरीरम्।
विसृज्य भूतेषु महत्सु देहं
तदाश्रयं चैव बिभर्ति रूपम्॥ 12-200-18(72977)
खं वायुमग्निं सलिलं तथोर्वी
समन्ततोऽभ्याविशते शरीरी।
नान्याश्रयाः कर्मसु वर्तमानाः
श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते॥ 12-200-19(72978)
श्रोत्रं नभो घ्राणमथो पृथिव्या
स्तेजोमयं रूपमथो विपाकः।
जलाश्रयं तेज उक्तं रसं च
वाय्वात्मकः स्पर्शकृतो गुणश्च॥ 12-200-20(72979)
महत्सु भूतेषु च सन्ति पञ्च
पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि।
सर्वाणि चैतानि मनोनुगानि
बुद्धिं मनोऽन्वेति मतिः स्वभावम्॥ 12-200-21(72980)
शुभाशुभं कर्म कृतं यदस्य
तदेव प्रेत्याददतेऽन्यदेहे।
मनोऽनुवर्तन्ति परावराणि
जलौकसः स्रोत इवानुकूलम्॥ 12-200-22(72981)
चलं यथा दृष्टिपथं परैति
सूक्ष्मं महद्रूपमिवावभाति।
तातप्यमानो न पतेच्च धीरः
परं तथा बुद्धिपथं परैति॥ ॥ 12-200-23(72982)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विशततमोऽध्यायः॥ 200॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-200-13 पृथक्परं पश्यति तत्स्वभावमिति ड. पाठः॥ 12-200-20 श्रोत्रं खत इति झ. पाठः। जलाश्रयः स्वेद उक्तो रसश्चेति ध. पाठः। जलाश्रयं ज्ञानमुक्तमिति ट. ड. थ. पाठः॥ 12-200-23 स्वरूपमालोचयते च रूपमिति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|